|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.10. अध्यायः 010
Mahabharata - Udyoga Parva - Chapter Topics
विष्णवाज्ञया ऋषिभिर्वृत्रस्य आसुधाद्यवध्यत्ववरदानपूर्वकं इन्द्रवृत्रयोः सन्धिकरणम् ॥ 1 ॥
कदाचन समुद्रतीरे वृत्रं दृष्टवता इन्द्रेण वृत्रोपरि सवज्रे फेने प्रक्षिप्ते तत्प्रविष्टेन विष्णुना वृत्रहननम् ॥ 2 ॥
वृत्रवधजन्यब्रह्महत्यापीडितस्येन्द्रस्य स्वर्गात्प्रवासः ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
इन्द्र उवाच। 5-10-0x(3370)(31994)
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्।
न ह्यस्य सदृशं किञ्चित्प्रतिघाताय यद्भवेत् ॥ 5-10-1(31995)
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम्।
कथं नु कार्यं भद्रं वो दुर्धर्षः स हि मे मतः ॥ 5-10-2(31996)
तेजस्वी च महात्मा च युद्धे चामितविक्रमः ।
ग्रसेत्रिभुवनं सर्वं सदेवासुरमानुषम् ॥ 5-10-3(31997)
तस्माद्विनिश्चयमिमं शृणुध्वं त्रिदिवौकसः।
विष्णोः क्षयमुपागम्य समेत्य च महात्मना ॥ 5-10-4(31998)
तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः । 5-10-5(31999)
शल्य उवाच।
एवमुक्ते मघवता देवाः शर्षिगणास्तदा।
शरण्यं शरमं देवं जग्मुर्विष्णुं महाबलम् ॥ 5-10-5x(3371)
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः।
त्रयो लोकास्त्वया क्रान्तास्त्रिभिर्विक्रमणैः पुरा ॥ 5-10-6(32000)
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे।
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥ 5-10-7(32001)
त्वं प्रभुः सर्वदेवानां त्वया सर्वमिदं ततम्।
त्वं हि देवो महादेव सर्वलोकनमस्कृतः ॥ 5-10-8(32002)
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम।
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ॥ 5-10-9(32003)
विष्णुरुवाच। 5-10-10x(3372)
अवश्यं करणीयं मे भवतां हितमुत्तमम्।
तस्मादुपायं वक्ष्यामि यथाऽसौ नभविष्यति ॥ 5-10-10(32004)
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्।
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ 5-10-11(32005)
भविष्यति जयो देवाः शक्रस्य मम तेजसा ।
अदृश्यश्च प्रवेक्ष्यामि वज्रे ह्यस्यायुधोत्तमे ॥ 5-10-12(32006)
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः ।
वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम् ॥ 5-10-13(32007)
शल्य उवाच। 5-10-14x(3373)
एवमुक्ते तु देवेन ऋषयस्त्रिदशास्तथा ।
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥ 5-10-14(32008)
समीपमेत्य च यदा सर्व एव महौजसः।
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥ 5-10-15(32009)
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा।
ददृशुस्ते ततो वृत्रं शक्रेण सह देवताः ॥ 5-10-16(32010)
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः।
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥ 5-10-17(32011)
न च शक्नोषि निर्जेषुं वासवं बलिनां वर।
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥ 5-10-18(32012)
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानुषाः ।
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥ 5-10-19(32013)
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्।
ऋषिवाक्यं निशम्याथ वृत्रःस तु महाबलः ॥ 5-10-20(32014)
उवाच तानृषीन्सर्वान्प्रणम्य शिरसाऽसुरः ।
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः ॥ 5-10-21(32015)
यद्ब्रूथ तच्छ्रुतं सर्वं ममापि श्रृणुतानघाः।
सन्धिः कथं वै भविता मम शक्रस्य चोभयोः ।
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥ 5-10-22(32016)
ऋषय ऊचुः । 5-10-23x(3374)
सकृत्सतां सङ्गतमीप्सितव्यं
ततः परं भविता भव्यमेव।
नातिक्रामेत्सत्पुरुषेण सङ्गतं
तस्मात्सतां संगतमीप्सितव्यम् ॥ 5-10-23(32017)
दृढं सतां सङ्गतं चापि नित्यं
ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीराः ।
महार्थवत्सत्पुरुषेण सङ्गतं
तस्मात्सन्तं न जिघांसेत धीरः ॥ 5-10-24(32018)
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम्।
सत्यवादी ह्यनिन्द्यश्च धर्मवित्सूक्ष्मनिश्चयः ॥ 5-10-25(32019)
तेन ते सह शक्रेण सन्धिर्भवतु नित्यदा।
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ॥ 5-10-26(32020)
शल्य उवाच। 5-10-27x(3375)
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः।
अवश्यं भगवन्तो मे माननीयास्तपस्विनः॥ 5-10-27(32021)
ब्रवीमि यदहं देवास्तत्सर्वं क्रियते यदि।
ततः सर्वं करिष्यामि यदूचुर्मां दिवौकसः ॥ 5-10-28(32022)
न शुष्केण न चाद्रेण नाश्मना न च दारुणा ।
न शस्त्रेण न चास्त्रेण न दिवा न तथा निशि ॥ 5-10-29(32023)
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ।
एवं मे रोचते सन्धिः शक्रेण सह नित्यदा ॥ 5-10-30(32024)
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ।
एवं वृत्ते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ॥ 5-10-31(32025)
` ततः सन्धिं मिथः कृत्वा ऋषयो दीप्ततेजसः।
शक्रस्य सह वृत्रेण पुनर्जग्मुर्यथागतम् '॥ 5-10-32(32026)
युक्तः सदाऽभवच्चापि शक्रो हर्षसमन्वितः।
वृत्रस्य वधसंयुक्तानुपायानन्वचिन्तयत् ॥ 5-10-34a` अभिसन्धिर्महेन्द्रस्य सन्धिकर्मणि यः कृतः।
ऋषिभिस्त्वीरितं यच्च महेन्द्रस्तदनुस्मरन् ॥' 5-10-33(32027)
छिद्रान्वेषी समुद्विग्नः सदा वसति देवराट्।
स कदाचिन्समुद्रान्ते समपश्यन्महासुरम् ॥ 5-10-35(32028)
सन्ध्याकाल उपावृत्ते मुहूर्ते चातिदारुणे।
ततः संचिन्त्य भगवान्वरदानं महात्मनः ॥ 5-10-36(32029)
सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च।
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥ 5-10-37(32030)
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम्।
महाबलं महाकायं न मे श्रेयो भविष्यति॥ 5-10-38(32031)
एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन्।
अथ फेनं तदाऽपश्यत् समुद्रे पर्वतोपमप् ॥ 5-10-39(32032)
नायं युष्को न चाद्रोऽयं न च शस्त्रमिदं तथा।
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति॥ 5-10-40(32033)
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्।
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥ 5-10-41(32034)
निहते तु ततो वृत्रे दिशो वितिमिराऽभवन्।
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तथा ॥ 5-10-42(32035)
ततो देवाः सगन्धर्वा यक्षरक्षोमहोरगाः ।
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ॥ 5-10-43(32036)
नमस्कृतः सर्वभूतैः सर्वभूतान्यसान्त्वयत्।
हत्वा शत्रुं प्रहृष्टात्मा वासवः सह दैवतैः ॥ 5-10-44(32037)
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित्।
ततो हते महावीर्ये वृत्रे देवभयङ्करे॥ 5-10-45(32038)
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः ।
त्रैशीर्षयाऽभिभूतश्च स पूर्वं ब्रह्महत्यया॥ 5-10-46(32039)
` महादेवस्य भूतैश्च स पुनर्ब्रह्महा इति।
आक्रुष्टो निर्भयैर्भूयो व्रीडितो बलवृत्रहा '॥ 5-10-47(32040)
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः।
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकर्मभिः ॥ 5-10-48(32041)
प्रतिच्छन्नोऽवसच्चाप्सु चेष्टमान इवोरगः ।
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्या भयार्दिते॥ 5-10-49(32042)
भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना ।
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च॥ 5-10-50(32043)
संक्षोभश्चापि सत्वानामनावृष्टिकृतोऽभवत्।
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ॥ 5-10-51(32044)
अराजकं जगत्सर्वमभिभूतमुपद्रवैः।
ततो भीताऽभवन्देवाः को नो राजा भवेदिति ॥ 5-10-52(32045)
दिवि देवर्षयश्चापि देवराजविनाकृताः।
न स्म कश्चन देवानां राज्ये वै कुरुते मतिम् ॥ ॥ 5-10-53(32046)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि दशमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-10-4 क्षयं गृहम् ॥ 4 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|